Original

तांश्चेज्जयति शत्रून्स तदा प्राप्नोति सद्गतिम् ।अथ ते वै जयन्त्येनं तालाग्रादिव पात्यते ॥ १५ ॥

Segmented

तान् चेद् जयति शत्रून् स तदा प्राप्नोति सत्-गतिम् अथ ते वै जयन्ति एनम् ताल-अग्रात् इव पात्यते

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
चेद् चेद् pos=i
जयति जि pos=v,p=3,n=s,l=lat
शत्रून् शत्रु pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
सत् सत् pos=a,comp=y
गतिम् गति pos=n,g=f,c=2,n=s
अथ अथ pos=i
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
जयन्ति जि pos=v,p=3,n=p,l=lat
एनम् एनद् pos=n,g=m,c=2,n=s
ताल ताल pos=n,comp=y
अग्रात् अग्र pos=n,g=n,c=5,n=s
इव इव pos=i
पात्यते पातय् pos=v,p=3,n=s,l=lat