Original

गाङ्गेयमर्जुनेनाजौ निहतं भूरिवर्चसम् ।भ्रातृभिः सहितोऽन्यैश्च पर्युपास्ते युधिष्ठिरः ॥ २ ॥

Segmented

गाङ्गेयम् अर्जुनेन आजौ निहतम् भूरि-वर्चसम् भ्रातृभिः सहितो अन्यैः च पर्युपास्ते युधिष्ठिरः

Analysis

Word Lemma Parse
गाङ्गेयम् गाङ्गेय pos=n,g=m,c=2,n=s
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
आजौ आजि pos=n,g=m,c=7,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
भूरि भूरि pos=n,comp=y
वर्चसम् वर्चस् pos=n,g=m,c=2,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सहितो सहित pos=a,g=m,c=1,n=s
अन्यैः अन्य pos=n,g=m,c=3,n=p
pos=i
पर्युपास्ते पर्युपास् pos=v,p=3,n=s,l=lat
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s