Original

महाभाग्यं परं तेषामृषीणामनुचिन्त्य ते ।पाण्डवाः सह भीष्मेण कथाश्चक्रुस्तदाश्रयाः ॥ १६ ॥

Segmented

महा-भाग्यम् परम् तेषाम् ऋषीणाम् अनुचिन्त्य ते पाण्डवाः सह भीष्मेण कथाः चक्रुः तद्-आश्रयाः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
भाग्यम् भाग्य pos=n,g=n,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
अनुचिन्त्य अनुचिन्तय् pos=vi
ते तद् pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सह सह pos=i
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
कथाः कथा pos=n,g=f,c=2,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
तद् तद् pos=n,comp=y
आश्रयाः आश्रय pos=n,g=f,c=2,n=p