Original

इन्द्रतोयां समासाद्य गन्धमादनसंनिधौ ।करतोयां कुरङ्गेषु त्रिरात्रोपोषितो नरः ।अश्वमेधमवाप्नोति विगाह्य नियतः शुचिः ॥ ११ ॥

Segmented

इन्द्रतोयाम् समासाद्य गन्धमादन-संनिधौ करतोयाम् कुरङ्गेषु त्रि-रात्र-उपोषितः नरः अश्वमेधम् अवाप्नोति विगाह्य नियतः शुचिः

Analysis

Word Lemma Parse
इन्द्रतोयाम् इन्द्रतोया pos=n,g=f,c=2,n=s
समासाद्य समासादय् pos=vi
गन्धमादन गन्धमादन pos=n,comp=y
संनिधौ संनिधि pos=n,g=m,c=7,n=s
करतोयाम् करतोया pos=n,g=f,c=2,n=s
कुरङ्गेषु कुरङ्ग pos=n,g=m,c=7,n=p
त्रि त्रि pos=n,comp=y
रात्र रात्र pos=n,comp=y
उपोषितः उपवस् pos=va,g=m,c=1,n=s,f=part
नरः नर pos=n,g=m,c=1,n=s
अश्वमेधम् अश्वमेध pos=n,g=m,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
विगाह्य विगाह् pos=vi
नियतः नियम् pos=va,g=m,c=1,n=s,f=part
शुचिः शुचि pos=a,g=m,c=1,n=s