Original

ततस्तेषां निषण्णानां धनदो वाक्यमब्रवीत् ।भवच्छन्दं समाज्ञाय नृत्येरन्नप्सरोगणाः ॥ १७ ॥

Segmented

ततस् तेषाम् निषण्णानाम् धनदो वाक्यम् अब्रवीत् भवत्-छन्दम् समाज्ञाय नृत्येरन्न् अप्सरः-गणाः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
निषण्णानाम् निषद् pos=va,g=m,c=6,n=p,f=part
धनदो धनद pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
भवत् भवत् pos=a,comp=y
छन्दम् छन्द pos=n,g=m,c=2,n=s
समाज्ञाय समाज्ञा pos=vi
नृत्येरन्न् नृत् pos=v,p=3,n=p,l=vidhilin
अप्सरः अप्सरस् pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p