Original

सोऽहमीशानमनघमस्तौषं शरणं गतः ।मुक्तश्चास्म्यवशः पापात्ततो दुःखविनाशनः ।आह मां त्रिपुरघ्नो वै यशस्तेऽग्र्यं भविष्यति ॥ ८ ॥

Segmented

सो ऽहम् ईशानम् अनघम् अस्तौषम् शरणम् गतः मुक्तः च अस्मि अवशः पापात् ततो दुःख-विनाशनः आह माम् त्रिपुर-घ्नः वै यशः ते ऽग्र्यम् भविष्यति

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
ईशानम् ईशान pos=n,g=m,c=2,n=s
अनघम् अनघ pos=a,g=m,c=2,n=s
अस्तौषम् स्तु pos=v,p=1,n=s,l=lun
शरणम् शरण pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
अवशः अवश pos=a,g=m,c=1,n=s
पापात् पाप pos=n,g=n,c=5,n=s
ततो ततस् pos=i
दुःख दुःख pos=n,comp=y
विनाशनः विनाशन pos=a,g=m,c=1,n=s
आह अह् pos=v,p=3,n=s,l=lit
माम् मद् pos=n,g=,c=2,n=s
त्रिपुर त्रिपुर pos=n,comp=y
घ्नः घ्न pos=a,g=m,c=1,n=s
वै वै pos=i
यशः यशस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽग्र्यम् अग्र्य pos=a,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt