Original

सायं प्रातर्मनुष्याणामशनं देवनिर्मितम् ।नान्तरा भोजनं दृष्टमुपवासविधिर्हि सः ॥ १४ ॥

Segmented

सायम् प्रातः मनुष्याणाम् अशनम् देव-निर्मितम् न अन्तरा भोजनम् दृष्टम् उपवास-विधिः हि सः

Analysis

Word Lemma Parse
सायम् सायम् pos=i
प्रातः प्रातर् pos=i
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
अशनम् अशन pos=n,g=n,c=1,n=s
देव देव pos=n,comp=y
निर्मितम् निर्मा pos=va,g=n,c=1,n=s,f=part
pos=i
अन्तरा अन्तरा pos=i
भोजनम् भोजन pos=n,g=n,c=1,n=s
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
उपवास उपवास pos=n,comp=y
विधिः विधि pos=n,g=m,c=1,n=s
हि हि pos=i
सः तद् pos=n,g=m,c=1,n=s