Original

भीष्म उवाच ।धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः ।यद्येवं मन्यसे राजंस्त्रिधा धर्मविचारणा ॥ १८ ॥

Segmented

भीष्म उवाच धर्मस्य ह्रियमाणस्य बलवद्भिः दुरात्मभिः यदि एवम् मन्यसे राजन् त्रिधा धर्म-विचारणा

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धर्मस्य धर्म pos=n,g=m,c=6,n=s
ह्रियमाणस्य हृ pos=va,g=m,c=6,n=s,f=part
बलवद्भिः बलवत् pos=a,g=m,c=3,n=p
दुरात्मभिः दुरात्मन् pos=a,g=m,c=3,n=p
यदि यदि pos=i
एवम् एवम् pos=i
मन्यसे मन् pos=v,p=2,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
त्रिधा त्रिधा pos=i
धर्म धर्म pos=n,comp=y
विचारणा विचारणा pos=n,g=f,c=1,n=s