Original

अथ मामब्रवीद्भूयः स मुनिः संशितव्रतः ।कृष्ण पायसमिच्छामि भोक्तुमित्येव सत्वरः ॥ १९ ॥

Segmented

अथ माम् अब्रवीद् भूयः स मुनिः संशित-व्रतः कृष्ण पायसम् इच्छामि भोक्तुम् इति एव सत्वरः

Analysis

Word Lemma Parse
अथ अथ pos=i
माम् मद् pos=n,g=,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
भूयः भूयस् pos=i
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
संशित संशित pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
पायसम् पायस pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
भोक्तुम् भुज् pos=vi
इति इति pos=i
एव एव pos=i
सत्वरः सत्वर pos=a,g=m,c=1,n=s