Original

स कुम्भरेताः ससृजे पुराणं यत्रोत्पन्नमृषिमाहुर्वसिष्ठम् ।स मातरिश्वा विभुरश्ववाजी स रश्मिमान्सविता चादिदेवः ॥ १८ ॥

Segmented

स कुम्भरेताः ससृजे पुराणम् यत्र उत्पन्नम् ऋषिम् आहुः वसिष्ठम् स मातरिश्वा विभुः अश्व-वाजी स रश्मिमान् सविता च आदिदेवः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कुम्भरेताः कुम्भरेतस् pos=n,g=m,c=1,n=s
ससृजे सृज् pos=v,p=3,n=s,l=lit
पुराणम् पुराण pos=a,g=m,c=2,n=s
यत्र यत्र pos=i
उत्पन्नम् उत्पद् pos=va,g=m,c=2,n=s,f=part
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
मातरिश्वा मातरिश्वन् pos=n,g=m,c=1,n=s
विभुः विभु pos=a,g=m,c=1,n=s
अश्व अश्व pos=n,comp=y
वाजी वाजिन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
रश्मिमान् रश्मिमन्त् pos=n,g=m,c=1,n=s
सविता सवितृ pos=n,g=m,c=1,n=s
pos=i
आदिदेवः आदिदेव pos=n,g=m,c=1,n=s