Original

ते ययुः शरणं विप्रांस्त ऊचुः काञ्जयामहे ।इत्युक्तास्ते द्विजान्प्राहुर्जयतेह कपानिति ।भूगतान्हि विजेतारो वयमित्येव पार्थिव ॥ ६ ॥

Segmented

ते ययुः शरणम् विप्रान् ते ऊचुः कान् जयामहे इति उक्ताः ते द्विजान् प्राहुः जयत इह कपान् इति भू-गतान् हि विजेतारो वयम् इति एव पार्थिव

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ययुः या pos=v,p=3,n=p,l=lit
शरणम् शरण pos=n,g=n,c=2,n=s
विप्रान् विप्र pos=n,g=m,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
कान् pos=n,g=m,c=2,n=p
जयामहे जि pos=v,p=1,n=p,l=lat
इति इति pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
द्विजान् द्विज pos=n,g=m,c=2,n=p
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
जयत जि pos=v,p=2,n=p,l=lot
इह इह pos=i
कपान् कप pos=n,g=m,c=2,n=p
इति इति pos=i
भू भू pos=n,comp=y
गतान् गम् pos=va,g=m,c=2,n=p,f=part
हि हि pos=i
विजेतारो विजि pos=v,p=3,n=p,l=lrt
वयम् मद् pos=n,g=,c=1,n=p
इति इति pos=i
एव एव pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s