Original

तस्यापि विस्तरेणोक्तं कर्मात्रेः सुमहात्मनः ।ब्रवीम्यहं ब्रूहि वा त्वमत्रितः क्षत्रियं वरम् ॥ १४ ॥

Segmented

तस्य अपि विस्तरेण उक्तम् कर्म अत्रेः सु महात्मनः ब्रवीमि अहम् ब्रूहि वा त्वम् अत्रितः क्षत्रियम् वरम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अपि अपि pos=i
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=1,n=s
अत्रेः अत्रि pos=n,g=m,c=6,n=s
सु सु pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
वा वा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अत्रितः अत्रि pos=n,g=m,c=5,n=s
क्षत्रियम् क्षत्रिय pos=n,g=m,c=2,n=s
वरम् वर pos=a,g=m,c=2,n=s