Original

यजमानांस्तु तान्दृष्ट्वा व्यग्रान्दीक्षानुकर्शितान् ।हन्तुमिच्छन्ति शैलाभाः खलिनो नाम दानवाः ॥ १७ ॥

Segmented

यजमानान् तु तान् दृष्ट्वा व्यग्रान् दीक्षा-अनुकर्शितान् हन्तुम् इच्छन्ति शैल-आभाः खलिनो नाम दानवाः

Analysis

Word Lemma Parse
यजमानान् यज् pos=va,g=m,c=2,n=p,f=part
तु तु pos=i
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
व्यग्रान् व्यग्र pos=a,g=m,c=2,n=p
दीक्षा दीक्षा pos=n,comp=y
अनुकर्शितान् अनुकर्शय् pos=va,g=m,c=2,n=p,f=part
हन्तुम् हन् pos=vi
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
शैल शैल pos=n,comp=y
आभाः आभ pos=a,g=m,c=1,n=p
खलिनो खलिन् pos=a,g=m,c=1,n=p
नाम नाम pos=i
दानवाः दानव pos=n,g=m,c=1,n=p