Original

नोद्वेजयति भूतानि न विहिंसयते तथा ।हस्तपादैः सुनियतैर्विश्वास्यः सर्वजन्तुषु ॥ ३८ ॥

Segmented

न उद्वेजयति भूतानि न विहिंसयते तथा हस्त-पादैः सु नियतैः विश्वास्यः सर्व-जन्तुषु

Analysis

Word Lemma Parse
pos=i
उद्वेजयति उद्वेजय् pos=v,p=3,n=s,l=lat
भूतानि भूत pos=n,g=n,c=2,n=p
pos=i
विहिंसयते विहिंसय् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
हस्त हस्त pos=n,comp=y
पादैः पाद pos=n,g=m,c=3,n=p
सु सु pos=i
नियतैः नियम् pos=va,g=m,c=3,n=p,f=part
विश्वास्यः विश्वस् pos=va,g=m,c=1,n=s,f=krtya
सर्व सर्व pos=n,comp=y
जन्तुषु जन्तु pos=n,g=m,c=7,n=p