Original

श्लक्ष्णां वाणीं निराबाधां मधुरां पापवर्जिताम् ।स्वागतेनाभिभाषन्ते ते नराः स्वर्गगामिनः ॥ २० ॥

Segmented

श्लक्ष्णाम् वाणीम् निराबाधाम् मधुराम् पाप-वर्जिताम् स्वागतेन अभिभाषन्ते ते नराः स्वर्ग-गामिनः

Analysis

Word Lemma Parse
श्लक्ष्णाम् श्लक्ष्ण pos=a,g=f,c=2,n=s
वाणीम् वाणी pos=n,g=f,c=2,n=s
निराबाधाम् निराबाध pos=a,g=f,c=2,n=s
मधुराम् मधुर pos=a,g=f,c=2,n=s
पाप पाप pos=n,comp=y
वर्जिताम् वर्जय् pos=va,g=f,c=2,n=s,f=part
स्वागतेन स्वागत pos=n,g=n,c=3,n=s
अभिभाषन्ते अभिभाष् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p