Original

वीरलोकगतो वीरो वीरयोगवहः सदा ।सत्त्वस्थः सर्वमुत्सृज्य दीक्षितो नियतः शुचिः ।वीराध्वानं प्रपद्येद्यस्तस्य लोकाः सनातनाः ॥ ५६ ॥

Segmented

वीर-लोक-गतः वीरो वीर-योग-वहः सदा सत्त्व-स्थः सर्वम् उत्सृज्य दीक्षितो नियतः शुचिः वीराध्वानम् प्रपद्येद् यः तस्य लोकाः सनातनाः

Analysis

Word Lemma Parse
वीर वीर pos=n,comp=y
लोक लोक pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
वीरो वीर pos=n,g=m,c=1,n=s
वीर वीर pos=n,comp=y
योग योग pos=n,comp=y
वहः वह pos=a,g=m,c=1,n=s
सदा सदा pos=i
सत्त्व सत्त्व pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
दीक्षितो दीक्षय् pos=va,g=m,c=1,n=s,f=part
नियतः नियम् pos=va,g=m,c=1,n=s,f=part
शुचिः शुचि pos=a,g=m,c=1,n=s
वीराध्वानम् वीराध्वन् pos=n,g=m,c=2,n=s
प्रपद्येद् प्रपद् pos=v,p=3,n=s,l=vidhilin
यः यद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
लोकाः लोक pos=n,g=m,c=1,n=p
सनातनाः सनातन pos=a,g=m,c=1,n=p