Original

आर्जवो भुवने नित्यं वसत्यमरसंनिधौ ।तस्मादार्जवनित्यः स्याद्य इच्छेद्धर्ममात्मनः ॥ ३१ ॥

Segmented

आर्जवो भुवने नित्यम् वसति अमर-संनिधौ तस्माद् आर्जव-नित्यः स्याद् य इच्छेद् धर्मम् आत्मनः

Analysis

Word Lemma Parse
आर्जवो आर्जव pos=a,g=m,c=1,n=s
भुवने भुवन pos=n,g=n,c=7,n=s
नित्यम् नित्यम् pos=i
वसति वस् pos=v,p=3,n=s,l=lat
अमर अमर pos=n,comp=y
संनिधौ संनिधि pos=n,g=m,c=7,n=s
तस्माद् तस्मात् pos=i
आर्जव आर्जव pos=n,comp=y
नित्यः नित्य pos=a,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
यद् pos=n,g=m,c=1,n=s
इच्छेद् इष् pos=v,p=3,n=s,l=vidhilin
धर्मम् धर्म pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s