Original

वालखिल्यास्तपःसिद्धा मुनयः सूर्यमण्डले ।उञ्छमुञ्छन्ति धर्मज्ञाः शाकुनीं वृत्तिमास्थिताः ॥ ३९ ॥

Segmented

वालखिल्याः तपः-सिद्धाः मुनयः सूर्य-मण्डले उञ्छम् उञ्छन्ति धर्म-ज्ञाः शाकुनीम् वृत्तिम् आस्थिताः

Analysis

Word Lemma Parse
वालखिल्याः वालखिल्य pos=n,g=m,c=1,n=p
तपः तपस् pos=n,comp=y
सिद्धाः सिध् pos=va,g=m,c=1,n=p,f=part
मुनयः मुनि pos=n,g=m,c=1,n=p
सूर्य सूर्य pos=n,comp=y
मण्डले मण्डल pos=n,g=n,c=7,n=s
उञ्छम् उञ्छ pos=n,g=m,c=2,n=s
उञ्छन्ति उञ्छ् pos=v,p=3,n=p,l=lat
धर्म धर्म pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
शाकुनीम् शाकुन pos=a,g=f,c=2,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
आस्थिताः आस्था pos=va,g=m,c=1,n=p,f=part