Original

भीष्म उवाच ।एवमुक्तः स भगवान्मैत्रेयं प्रत्यभाषत ।दिष्ट्यैवं त्वं विजानासि दिष्ट्या ते बुद्धिरीदृशी ।लोको ह्ययं गुणानेव भूयिष्ठं स्म प्रशंसति ॥ १ ॥

Segmented

भीष्म उवाच एवम् उक्तः स भगवान् मैत्रेयम् प्रत्यभाषत दिष्ट्या एवम् त्वम् विजानासि दिष्ट्या ते बुद्धिः ईदृशी लोको हि अयम् गुणान् एव भूयिष्ठम् स्म प्रशंसति

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
मैत्रेयम् मैत्रेय pos=n,g=m,c=2,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
एवम् एवम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
विजानासि विज्ञा pos=v,p=2,n=s,l=lat
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
ईदृशी ईदृश pos=a,g=f,c=1,n=s
लोको लोक pos=n,g=m,c=1,n=s
हि हि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
गुणान् गुण pos=n,g=m,c=2,n=p
एव एव pos=i
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=2,n=s
स्म स्म pos=i
प्रशंसति प्रशंस् pos=v,p=3,n=s,l=lat