Original

भ्रातॄणां नास्ति सौभ्रात्रं येऽप्येकस्य पितुः सुताः ।राज्यहेतोर्विवदिताः कश्यपस्य सुरासुराः ॥ २६ ॥

Segmented

भ्रातॄणाम् न अस्ति सौभ्रात्रम् ये अपि एकस्य पितुः सुताः राज्य-हेतोः विवदिताः कश्यपस्य सुर-असुराः

Analysis

Word Lemma Parse
भ्रातॄणाम् भ्रातृ pos=n,g=m,c=6,n=p
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
सौभ्रात्रम् सौभ्रात्र pos=n,g=n,c=1,n=s
ये यद् pos=n,g=m,c=1,n=p
अपि अपि pos=i
एकस्य एक pos=n,g=m,c=6,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
सुताः सुत pos=n,g=m,c=1,n=p
राज्य राज्य pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
विवदिताः विवद् pos=va,g=m,c=1,n=p,f=part
कश्यपस्य कश्यप pos=n,g=m,c=6,n=s
सुर सुर pos=n,comp=y
असुराः असुर pos=n,g=m,c=1,n=p