Original

आत्मौपम्येन गन्तव्यं बुद्धिमद्भिर्महात्मभिः ।मृत्युतो भयमस्तीति विदुषां भूतिमिच्छताम् ॥ २२ ॥

Segmented

आत्म-औपम्येन गन्तव्यम् बुद्धिमद्भिः महात्मभिः मृत्युतो भयम् अस्ति इति विदुषाम् भूतिम् इच्छताम्

Analysis

Word Lemma Parse
आत्म आत्मन् pos=n,comp=y
औपम्येन औपम्य pos=n,g=n,c=3,n=s
गन्तव्यम् गम् pos=va,g=n,c=1,n=s,f=krtya
बुद्धिमद्भिः बुद्धिमत् pos=a,g=m,c=3,n=p
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
मृत्युतो मृत्यु pos=n,g=m,c=5,n=s
भयम् भय pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
विदुषाम् विद्वस् pos=a,g=m,c=6,n=p
भूतिम् भूति pos=n,g=f,c=2,n=s
इच्छताम् इष् pos=va,g=m,c=6,n=p,f=part