Original

वैशंपायन उवाच ।इत्युक्त्वा तं सुरगुरुर्धर्मराजं युधिष्ठिरम् ।दिवमाचक्रमे धीमान्पश्यतामेव नस्तदा ॥ ११ ॥

Segmented

वैशंपायन उवाच इति उक्त्वा तम् सुरगुरुः धर्मराजम् युधिष्ठिरम् दिवम् आचक्रमे धीमान् पश्यताम् एव नः तदा

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्त्वा वच् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
सुरगुरुः सुरगुरु pos=n,g=m,c=1,n=s
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
आचक्रमे आक्रम् pos=v,p=3,n=s,l=lit
धीमान् धीमत् pos=a,g=m,c=1,n=s
पश्यताम् दृश् pos=va,g=m,c=6,n=p,f=part
एव एव pos=i
नः मद् pos=n,g=,c=6,n=p
तदा तदा pos=i