Original

परदारा न गन्तव्याः सर्ववर्णेषु कर्हिचित् ।न हीदृशमनायुष्यं लोके किंचन विद्यते ।यादृशं पुरुषस्येह परदारोपसेवनम् ॥ २० ॥

Segmented

पर-दाराः न गन्तव्याः सर्व-वर्णेषु कर्हिचित् न हि ईदृशम् अनायुष्यम् लोके किंचन विद्यते यादृशम् पुरुषस्य इह पर-दार-उपसेवनम्

Analysis

Word Lemma Parse
पर पर pos=n,comp=y
दाराः दार pos=n,g=m,c=1,n=p
pos=i
गन्तव्याः गम् pos=va,g=m,c=1,n=p,f=krtya
सर्व सर्व pos=n,comp=y
वर्णेषु वर्ण pos=n,g=m,c=7,n=p
कर्हिचित् कर्हिचित् pos=i
pos=i
हि हि pos=i
ईदृशम् ईदृश pos=a,g=n,c=1,n=s
अनायुष्यम् अनायुष्य pos=a,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
किंचन कश्चन pos=n,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
यादृशम् यादृश pos=a,g=n,c=1,n=s
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
इह इह pos=i
पर पर pos=n,comp=y
दार दार pos=n,comp=y
उपसेवनम् उपसेवन pos=n,g=n,c=1,n=s