Original

ये जीर्यन्ते ब्रह्मचर्येण विप्रा ब्राह्मीं वाचं परिरक्षन्ति चैव ।मनस्विनस्तीर्थयात्रापरायणास्ते तत्र मोदन्ति गवां विमाने ॥ ४४ ॥

Segmented

ये जीर्यन्ते ब्रह्मचर्येण विप्रा ब्राह्मीम् वाचम् परिरक्षन्ति च एव मनस्विनः तीर्थ-यात्रा-परायणाः ते तत्र मोदन्ति गवाम् विमाने

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
जीर्यन्ते जृ pos=v,p=3,n=p,l=lat
ब्रह्मचर्येण ब्रह्मचर्य pos=n,g=n,c=3,n=s
विप्रा विप्र pos=n,g=m,c=1,n=p
ब्राह्मीम् ब्राह्म pos=a,g=f,c=2,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
परिरक्षन्ति परिरक्ष् pos=v,p=3,n=p,l=lat
pos=i
एव एव pos=i
मनस्विनः मनस्विन् pos=a,g=m,c=1,n=p
तीर्थ तीर्थ pos=n,comp=y
यात्रा यात्रा pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
मोदन्ति मुद् pos=v,p=3,n=p,l=lat
गवाम् गो pos=n,g=,c=6,n=p
विमाने विमान pos=n,g=n,c=7,n=s