Original

गौतम उवाच ।प्राजापत्याः सन्ति लोका महान्तो नाकस्य पृष्ठे पुष्कला वीतशोकाः ।मनीषिताः सर्वलोकोद्भवानां तत्र त्वाहं हस्तिनं यातयिष्ये ॥ ४० ॥

Segmented

गौतम उवाच प्राजापत्याः सन्ति लोका महान्तो नाकस्य पृष्ठे पुष्कला वीत-शोकाः मनीषिताः सर्व-लोक-उद्भवानाम् तत्र त्वा अहम् हस्तिनम् यातयिष्ये

Analysis

Word Lemma Parse
गौतम गौतम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्राजापत्याः प्राजापत्य pos=a,g=m,c=1,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
लोका लोक pos=n,g=m,c=1,n=p
महान्तो महत् pos=a,g=m,c=1,n=p
नाकस्य नाक pos=n,g=m,c=6,n=s
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
पुष्कला पुष्कल pos=a,g=m,c=1,n=p
वीत वी pos=va,comp=y,f=part
शोकाः शोक pos=n,g=m,c=1,n=p
मनीषिताः मनीषित pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
उद्भवानाम् उद्भव pos=a,g=m,c=6,n=p
तत्र तत्र pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
हस्तिनम् हस्तिन् pos=n,g=m,c=2,n=s
यातयिष्ये यातय् pos=v,p=1,n=s,l=lrt