Original

गौतम उवाच ।ततः परं भान्ति लोकाः सनातनाः सुपुण्यगन्धा निर्मला वीतशोकाः ।सोमस्य राज्ञः सदने महात्मनस्तत्र त्वाहं हस्तिनं यातयिष्ये ॥ २९ ॥

Segmented

गौतम उवाच ततः परम् भान्ति लोकाः सनातनाः सु पुण्य-गन्धाः निर्मला वीत-शोकाः सोमस्य राज्ञः सदने महात्मनः तत्र त्वा अहम् हस्तिनम् यातयिष्ये

Analysis

Word Lemma Parse
गौतम गौतम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
परम् परम् pos=i
भान्ति भा pos=v,p=3,n=p,l=lat
लोकाः लोक pos=n,g=m,c=1,n=p
सनातनाः सनातन pos=a,g=m,c=1,n=p
सु सु pos=i
पुण्य पुण्य pos=a,comp=y
गन्धाः गन्ध pos=n,g=m,c=1,n=p
निर्मला निर्मल pos=a,g=m,c=1,n=p
वीत वी pos=va,comp=y,f=part
शोकाः शोक pos=n,g=m,c=1,n=p
सोमस्य सोम pos=n,g=m,c=6,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
सदने सदन pos=n,g=n,c=7,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
तत्र तत्र pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
हस्तिनम् हस्तिन् pos=n,g=m,c=2,n=s
यातयिष्ये यातय् pos=v,p=1,n=s,l=lrt