Original

धृतराष्ट्र उवाच ।ब्राह्मणानां हस्तिभिर्नास्ति कृत्यं राजन्यानां नागकुलानि विप्र ।स्वं वाहनं नयतो नास्त्यधर्मो नागश्रेष्ठाद्गौतमास्मान्निवर्त ॥ १३ ॥

Segmented

धृतराष्ट्र उवाच ब्राह्मणानाम् हस्तिभिः न अस्ति कृत्यम् राजन्यानाम् नाग-कुलानि विप्र स्वम् वाहनम् नयतो न अस्ति अधर्मः नाग-श्रेष्ठात् गौतम-अस्मात् निवर्त

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
हस्तिभिः हस्तिन् pos=n,g=m,c=3,n=p
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
कृत्यम् कृत्य pos=n,g=n,c=1,n=s
राजन्यानाम् राजन्य pos=n,g=m,c=6,n=p
नाग नाग pos=n,comp=y
कुलानि कुल pos=n,g=n,c=1,n=p
विप्र विप्र pos=n,g=m,c=8,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
वाहनम् वाहन pos=n,g=n,c=2,n=s
नयतो नी pos=va,g=m,c=6,n=s,f=part
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अधर्मः अधर्म pos=n,g=m,c=1,n=s
नाग नाग pos=n,comp=y
श्रेष्ठात् श्रेष्ठ pos=a,g=m,c=5,n=s
गौतम गौतम pos=n,comp=y
अस्मात् इदम् pos=n,g=m,c=5,n=s
निवर्त निवृत् pos=v,p=2,n=s,l=lot