Original

तस्माद्दीपाः प्रदातव्याः सायं वै गृहमेधिभिः ।दिव्यं चक्षुरवाप्नोति प्रेत्य दीपप्रदायकः ।पूर्णचन्द्रप्रतीकाशा दीपदाश्च भवन्त्युत ॥ ३६ ॥

Segmented

तस्माद् दीपाः प्रदातव्याः सायम् वै गृहमेधिभिः दिव्यम् चक्षुः अवाप्नोति प्रेत्य दीप-प्रदायकः पूर्ण-चन्द्र-प्रतीकाशाः दीप-दाः च भवन्ति उत

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
दीपाः दीप pos=n,g=m,c=1,n=p
प्रदातव्याः प्रदा pos=va,g=m,c=1,n=p,f=krtya
सायम् सायम् pos=i
वै वै pos=i
गृहमेधिभिः गृहमेधिन् pos=n,g=m,c=3,n=p
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
चक्षुः चक्षुस् pos=n,g=n,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
प्रेत्य प्रे pos=vi
दीप दीप pos=n,comp=y
प्रदायकः प्रदायक pos=a,g=m,c=1,n=s
पूर्ण पूर्ण pos=a,comp=y
चन्द्र चन्द्र pos=n,comp=y
प्रतीकाशाः प्रतीकाश pos=n,g=m,c=1,n=p
दीप दीप pos=n,comp=y
दाः pos=a,g=m,c=1,n=p
pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
उत उत pos=i