Original

ततः शक्रं समानाय्य देवानाह पितामहः ।वरदानान्मम सुरा नहुषो राज्यमाप्तवान् ।स चागस्त्येन क्रुद्धेन भ्रंशितो भूतलं गतः ॥ ३१ ॥

Segmented

ततः शक्रम् समानाय्य देवान् आह पितामहः वर-दानात् मे सुरा नहुषो राज्यम् आप्तवान् स च अगस्त्येन क्रुद्धेन भ्रंशितो भू-तलम् गतः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शक्रम् शक्र pos=n,g=m,c=2,n=s
समानाय्य समानायय् pos=vi
देवान् देव pos=n,g=m,c=2,n=p
आह अह् pos=v,p=3,n=s,l=lit
पितामहः पितामह pos=n,g=m,c=1,n=s
वर वर pos=n,comp=y
दानात् दान pos=n,g=n,c=5,n=s
मे मद् pos=n,g=,c=6,n=s
सुरा सुर pos=n,g=m,c=8,n=p
नहुषो नहुष pos=n,g=m,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
आप्तवान् आप् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
pos=i
अगस्त्येन अगस्त्य pos=n,g=m,c=3,n=s
क्रुद्धेन क्रुध् pos=va,g=m,c=3,n=s,f=part
भ्रंशितो भ्रंशय् pos=va,g=m,c=1,n=s,f=part
भू भू pos=n,comp=y
तलम् तल pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part