Original

स तु तैस्तैः प्रदानैश्च तपोभिर्नियमैस्तथा ।पतितोऽपि महाराज भूतले स्मृतिमानभूत् ।प्रसादयामास भृगुं शापान्तो मे भवेदिति ॥ २५ ॥

Segmented

स तु तैः तैः प्रदानैः च तपोभिः नियमैः तथा पतितो ऽपि महा-राज भू-तले स्मृतिमान् अभूत् प्रसादयामास भृगुम् शाप-अन्तः मे भवेद् इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
तैः तद् pos=n,g=n,c=3,n=p
तैः तद् pos=n,g=n,c=3,n=p
प्रदानैः प्रदान pos=n,g=n,c=3,n=p
pos=i
तपोभिः तपस् pos=n,g=n,c=3,n=p
नियमैः नियम pos=n,g=m,c=3,n=p
तथा तथा pos=i
पतितो पत् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भू भू pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
स्मृतिमान् स्मृतिमत् pos=a,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
प्रसादयामास प्रसादय् pos=v,p=3,n=s,l=lit
भृगुम् भृगु pos=n,g=m,c=2,n=s
शाप शाप pos=n,comp=y
अन्तः अन्त pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i