Original

एवमुक्तस्तु भृगुणा मैत्रावरुणिरव्ययः ।अगस्त्यः परमप्रीतो बभूव विगतज्वरः ॥ २९ ॥

Segmented

एवम् उक्तवान् तु भृगुणा मैत्रावरुणिः अव्ययः अगस्त्यः परम-प्रीतः बभूव विगत-ज्वरः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
भृगुणा भृगु pos=n,g=m,c=3,n=s
मैत्रावरुणिः मैत्रावरुणि pos=n,g=m,c=1,n=s
अव्ययः अव्यय pos=a,g=m,c=1,n=s
अगस्त्यः अगस्त्य pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
बभूव भू pos=v,p=3,n=s,l=lit
विगत विगम् pos=va,comp=y,f=part
ज्वरः ज्वर pos=n,g=m,c=1,n=s