Original

इतो दत्तेन जीवन्ति देवताः पितरस्तथा ।ते प्रीताः प्रीणयन्त्येतानायुषा यशसा धनैः ॥ ५८ ॥

Segmented

इतो दत्तेन जीवन्ति देवताः पितरः तथा ते प्रीताः प्रीणयन्ति एतान् आयुषा यशसा धनैः

Analysis

Word Lemma Parse
इतो इतस् pos=i
दत्तेन दा pos=va,g=n,c=3,n=s,f=part
जीवन्ति जीव् pos=v,p=3,n=p,l=lat
देवताः देवता pos=n,g=f,c=1,n=p
पितरः पितृ pos=n,g=,c=1,n=p
तथा तथा pos=i
ते तद् pos=n,g=m,c=1,n=p
प्रीताः प्री pos=va,g=m,c=1,n=p,f=part
प्रीणयन्ति प्रीणय् pos=v,p=3,n=p,l=lat
एतान् एतद् pos=n,g=m,c=2,n=p
आयुषा आयुस् pos=n,g=n,c=3,n=s
यशसा यशस् pos=n,g=n,c=3,n=s
धनैः धन pos=n,g=n,c=3,n=p