Original

समीप्सन्तः कालयोगं त्यजन्ति सद्यः शुचं त्वर्थविदस्त्यजन्ति ।श्रेयः क्षयः शोचतां नित्यशो हि तस्मात्त्याज्यं जहि शोकं हतेऽस्मिन् ॥ १८ ॥

Segmented

समीप्सन्तः काल-योगम् त्यजन्ति सद्यः शुचम् तु अर्थ-विदः त्यजन्ति श्रेयः क्षयः शोचताम् नित्यशो हि तस्मात् त्याज्यम् जहि शोकम् हते ऽस्मिन्

Analysis

Word Lemma Parse
समीप्सन्तः समीप्स् pos=va,g=m,c=1,n=p,f=part
काल काल pos=n,comp=y
योगम् योग pos=n,g=m,c=2,n=s
त्यजन्ति त्यज् pos=v,p=3,n=p,l=lat
सद्यः सद्यस् pos=i
शुचम् शुच् pos=n,g=f,c=2,n=s
तु तु pos=i
अर्थ अर्थ pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
त्यजन्ति त्यज् pos=v,p=3,n=p,l=lat
श्रेयः श्रेयस् pos=n,g=n,c=1,n=s
क्षयः क्षय pos=n,g=m,c=1,n=s
शोचताम् शुच् pos=va,g=m,c=6,n=p,f=part
नित्यशो नित्यशस् pos=i
हि हि pos=i
तस्मात् तस्मात् pos=i
त्याज्यम् त्यज् pos=va,g=m,c=2,n=s,f=krtya
जहि हा pos=v,p=2,n=s,l=lot
शोकम् शोक pos=n,g=m,c=2,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s