Original

वराप्सरःसहस्राणि शूरमायोधने हतम् ।त्वरमाणा हि धावन्ति मम भर्ता भवेदिति ॥ ४५ ॥

Segmented

वर-अप्सरः-सहस्राणि शूरम् आयोधने हतम् त्वरमाणा हि धावन्ति मम भर्ता भवेद् इति

Analysis

Word Lemma Parse
वर वर pos=a,comp=y
अप्सरः अप्सरस् pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
शूरम् शूर pos=n,g=m,c=2,n=s
आयोधने आयोधन pos=n,g=n,c=7,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
त्वरमाणा त्वर् pos=va,g=f,c=1,n=p,f=part
हि हि pos=i
धावन्ति धाव् pos=v,p=3,n=p,l=lat
मम मद् pos=n,g=,c=6,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i