Original

उत्तिष्ठति कबन्धोऽत्र सहस्रे निहते तु यः ।स यूपस्तस्य शूरस्य खादिरोऽष्टाश्रिरुच्यते ॥ २४ ॥

Segmented

उत्तिष्ठति कबन्धो ऽत्र सहस्रे निहते तु यः स यूपः तस्य शूरस्य खादिरो अष्ट-अश्रिः उच्यते

Analysis

Word Lemma Parse
उत्तिष्ठति उत्था pos=v,p=3,n=s,l=lat
कबन्धो कबन्ध pos=n,g=m,c=1,n=s
ऽत्र अत्र pos=i
सहस्रे सहस्र pos=n,g=n,c=7,n=s
निहते निहन् pos=va,g=n,c=7,n=s,f=part
तु तु pos=i
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
यूपः यूप pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
शूरस्य शूर pos=n,g=m,c=6,n=s
खादिरो खादिर pos=a,g=m,c=1,n=s
अष्ट अष्टन् pos=n,comp=y
अश्रिः अस्र pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat