Original

हविर्धानं तु तस्याहुः परेषां वाहिनीमुखम् ।कुञ्जराणां हयानां च वर्मिणां च समुच्चयः ।अग्निः श्येनचितो नाम तस्य यज्ञे विधीयते ॥ २३ ॥

Segmented

हविर्धानम् तु तस्य आहुः परेषाम् वाहिनी-मुखम् कुञ्जराणाम् हयानाम् च वर्मिणाम् च समुच्चयः अग्निः श्येनचितो नाम तस्य यज्ञे विधीयते

Analysis

Word Lemma Parse
हविर्धानम् हविर्धान pos=n,g=n,c=2,n=s
तु तु pos=i
तस्य तद् pos=n,g=m,c=6,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
परेषाम् पर pos=n,g=m,c=6,n=p
वाहिनी वाहिनी pos=n,comp=y
मुखम् मुख pos=n,g=n,c=2,n=s
कुञ्जराणाम् कुञ्जर pos=n,g=m,c=6,n=p
हयानाम् हय pos=n,g=m,c=6,n=p
pos=i
वर्मिणाम् वर्मिन् pos=a,g=m,c=6,n=p
pos=i
समुच्चयः समुच्चय pos=n,g=m,c=1,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
श्येनचितो श्येनचित pos=n,g=m,c=1,n=s
नाम नाम pos=i
तस्य तद् pos=n,g=m,c=6,n=s
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat