Original

तस्य यावन्ति शस्त्राणि त्वचं भिन्दन्ति संयुगे ।तावतः सोऽश्नुते लोकान्सर्वकामदुहोऽक्षयान् ॥ १२ ॥

Segmented

तस्य यावन्ति शस्त्राणि त्वचम् भिन्दन्ति संयुगे तावतः सो ऽश्नुते लोकान् सर्व-कामदुह् ऽक्षयान्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
यावन्ति यावत् pos=a,g=n,c=1,n=p
शस्त्राणि शस्त्र pos=n,g=n,c=1,n=p
त्वचम् त्वच् pos=n,g=f,c=2,n=s
भिन्दन्ति भिद् pos=v,p=3,n=p,l=lat
संयुगे संयुग pos=n,g=n,c=7,n=s
तावतः तावत् pos=a,g=m,c=2,n=p
सो तद् pos=n,g=m,c=1,n=s
ऽश्नुते अश् pos=v,p=3,n=s,l=lat
लोकान् लोक pos=n,g=m,c=2,n=p
सर्व सर्व pos=n,comp=y
कामदुह् कामदुह् pos=a,g=m,c=2,n=p
ऽक्षयान् अक्षय pos=a,g=m,c=2,n=p