Original

अनीकयोः संहतयोर्यदीयाद्ब्राह्मणोऽन्तरा ।शान्तिमिच्छन्नुभयतो न योद्धव्यं तदा भवेत् ।मर्यादां शाश्वतीं भिन्द्याद्ब्राह्मणं योऽभिलङ्घयेत् ॥ ८ ॥

Segmented

अनीकयोः संहतयोः यदि ईयात् ब्राह्मणो ऽन्तरा शान्तिम् इच्छन्न् उभयतो न योद्धव्यम् तदा भवेत् मर्यादाम् शाश्वतीम् भिन्द्याद् ब्राह्मणम् यो ऽभिलङ्घयेत्

Analysis

Word Lemma Parse
अनीकयोः अनीक pos=n,g=m,c=6,n=d
संहतयोः संहन् pos=va,g=m,c=6,n=d,f=part
यदि यदि pos=i
ईयात् pos=v,p=3,n=s,l=vidhilin
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
ऽन्तरा अन्तरा pos=i
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
इच्छन्न् इष् pos=va,g=m,c=1,n=s,f=part
उभयतो उभयतस् pos=i
pos=i
योद्धव्यम् युध् pos=va,g=n,c=1,n=s,f=krtya
तदा तदा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
मर्यादाम् मर्यादा pos=n,g=f,c=2,n=s
शाश्वतीम् शाश्वत pos=a,g=f,c=2,n=s
भिन्द्याद् भिद् pos=v,p=3,n=s,l=vidhilin
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽभिलङ्घयेत् अभिलङ्घय् pos=v,p=3,n=s,l=vidhilin