Original

भग्नशस्त्रो विपन्नाश्वश्छिन्नज्यो हतवाहनः ।चिकित्स्यः स्यात्स्वविषये प्राप्यो वा स्वगृहान्भवेत् ।निर्व्रणोऽपि च मोक्तव्य एष धर्मः सनातनः ॥ १३ ॥

Segmented

भग्न-शस्त्रः विपन्न-अश्वः छिन्न-ज्यः हत-वाहनः चिकित्स्यः स्यात् स्व-विषये प्राप्यो वा स्व-गृहान् भवेत् निर्व्रणो ऽपि च मोक्तव्य एष धर्मः सनातनः

Analysis

Word Lemma Parse
भग्न भञ्ज् pos=va,comp=y,f=part
शस्त्रः शस्त्र pos=n,g=m,c=1,n=s
विपन्न विपद् pos=va,comp=y,f=part
अश्वः अश्व pos=n,g=m,c=1,n=s
छिन्न छिद् pos=va,comp=y,f=part
ज्यः ज्या pos=n,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
वाहनः वाहन pos=n,g=m,c=1,n=s
चिकित्स्यः चिकित्स् pos=va,g=m,c=1,n=s,f=krtya
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
स्व स्व pos=a,comp=y
विषये विषय pos=n,g=m,c=7,n=s
प्राप्यो प्राप् pos=va,g=m,c=1,n=s,f=krtya
वा वा pos=i
स्व स्व pos=a,comp=y
गृहान् गृह pos=n,g=m,c=2,n=p
भवेत् भू pos=v,p=3,n=s,l=vidhilin
निर्व्रणो निर्व्रण pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
pos=i
मोक्तव्य मुच् pos=va,g=m,c=1,n=s,f=krtya
एष एतद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s