Original

जन्ममृत्युजराव्याधिवेदनाभिरुपद्रुतम् ।असारमिममस्वन्तं संसारं त्यजतः सुखम् ॥ ३३ ॥

Segmented

जन्म-मृत्यु-जरा-व्याधि-वेदनाभिः उपद्रुतम् असारम् इमम् अस्वन्तम् संसारम् त्यजतः सुखम्

Analysis

Word Lemma Parse
जन्म जन्मन् pos=n,comp=y
मृत्यु मृत्यु pos=n,comp=y
जरा जरा pos=n,comp=y
व्याधि व्याधि pos=n,comp=y
वेदनाभिः वेदना pos=n,g=f,c=3,n=p
उपद्रुतम् उपद्रु pos=va,g=m,c=2,n=s,f=part
असारम् असार pos=a,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
अस्वन्तम् अस्वन्त pos=a,g=m,c=2,n=s
संसारम् संसार pos=n,g=m,c=2,n=s
त्यजतः त्यज् pos=va,g=m,c=6,n=s,f=part
सुखम् सुख pos=n,g=n,c=1,n=s