Original

नियम्याः सर्व एवैते ये राष्ट्रस्योपघातकाः ।एते राष्ट्रे हि तिष्ठन्तो बाधन्ते भद्रिकाः प्रजाः ॥ १४ ॥

Segmented

नियम्याः सर्व एव एते ये राष्ट्रस्य उपघातकाः एते राष्ट्रे हि तिष्ठन्तो बाधन्ते भद्रिकाः प्रजाः

Analysis

Word Lemma Parse
नियम्याः नियम् pos=va,g=m,c=1,n=p,f=krtya
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
एते एतद् pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
राष्ट्रस्य राष्ट्र pos=n,g=n,c=6,n=s
उपघातकाः उपघातक pos=a,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
राष्ट्रे राष्ट्र pos=n,g=n,c=7,n=s
हि हि pos=i
तिष्ठन्तो स्था pos=va,g=m,c=1,n=p,f=part
बाधन्ते बाध् pos=v,p=3,n=p,l=lat
भद्रिकाः भद्रक pos=a,g=f,c=2,n=p
प्रजाः प्रजा pos=n,g=f,c=2,n=p