Original

भीष्म उवाच ।एषा प्रथमतो वृत्तिर्द्वितीयां शृणु भारत ।यः कश्चिज्जनयेदर्थं राज्ञा रक्ष्यः स मानवः ॥ १ ॥

Segmented

भीष्म उवाच एषा प्रथमतो वृत्तिः द्वितीयाम् शृणु भारत यः कश्चिद् जनयेत् अर्थम् राज्ञा रक्ष्यः स मानवः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एषा एतद् pos=n,g=f,c=1,n=s
प्रथमतो प्रथमतस् pos=i
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
द्वितीयाम् द्वितीय pos=a,g=f,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
भारत भारत pos=n,g=m,c=8,n=s
यः यद् pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
जनयेत् जनय् pos=v,p=3,n=s,l=vidhilin
अर्थम् अर्थ pos=n,g=m,c=2,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
रक्ष्यः रक्ष् pos=va,g=m,c=1,n=s,f=krtya
तद् pos=n,g=m,c=1,n=s
मानवः मानव pos=n,g=m,c=1,n=s