Original

यथाश्वमेधावभृथे स्नाताः पूता भवन्त्युत ।दुष्कृतः सुकृतश्चैव तथा शस्त्रहता रणे ॥ ३० ॥

Segmented

यथा अश्वमेध-अवभृथे स्नाताः पूता भवन्ति उत दुष्कृतः सु कृतः च एव तथा शस्त्र-हताः रणे

Analysis

Word Lemma Parse
यथा यथा pos=i
अश्वमेध अश्वमेध pos=n,comp=y
अवभृथे अवभृथ pos=n,g=m,c=7,n=s
स्नाताः स्ना pos=va,g=m,c=1,n=p,f=part
पूता पू pos=va,g=m,c=1,n=p,f=part
भवन्ति भू pos=v,p=3,n=p,l=lat
उत उत pos=i
दुष्कृतः दुष्कृत् pos=a,g=m,c=1,n=p
सु सु pos=i
कृतः कृत् pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
तथा तथा pos=i
शस्त्र शस्त्र pos=n,comp=y
हताः हन् pos=va,g=m,c=1,n=p,f=part
रणे रण pos=n,g=m,c=7,n=s