Original

युधिष्ठिर उवाच ।अथ तात यदा सर्वाः शस्त्रमाददते प्रजाः ।व्युत्क्रामन्ति स्वधर्मेभ्यः क्षत्रस्य क्षीयते बलम् ॥ १२ ॥

Segmented

युधिष्ठिर उवाच अथ तात यदा सर्वाः शस्त्रम् आददते प्रजाः व्युत्क्रामन्ति स्वधर्मेभ्यः क्षत्रस्य क्षीयते बलम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
तात तात pos=n,g=m,c=8,n=s
यदा यदा pos=i
सर्वाः सर्व pos=n,g=f,c=1,n=p
शस्त्रम् शस्त्र pos=n,g=n,c=2,n=s
आददते आदा pos=v,p=3,n=p,l=lat
प्रजाः प्रजा pos=n,g=f,c=1,n=p
व्युत्क्रामन्ति व्युत्क्रम् pos=v,p=3,n=p,l=lat
स्वधर्मेभ्यः स्वधर्म pos=n,g=m,c=5,n=p
क्षत्रस्य क्षत्र pos=n,g=n,c=6,n=s
क्षीयते क्षि pos=v,p=3,n=s,l=lat
बलम् बल pos=n,g=n,c=1,n=s