Original

वायुरुवाच ।विप्रस्य सर्वमेवैतद्यत्किंचिज्जगतीगतम् ।ज्येष्ठेनाभिजनेनेह तद्धर्मकुशला विदुः ॥ १० ॥

Segmented

वायुः उवाच विप्रस्य सर्वम् एव एतत् यत् किंचिद् जगती-गतम् ज्येष्ठेन अभिजनेन इह तद् धर्म-कुशलाः विदुः

Analysis

Word Lemma Parse
वायुः वायु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विप्रस्य विप्र pos=n,g=m,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
एव एव pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
जगती जगती pos=n,comp=y
गतम् गम् pos=va,g=n,c=1,n=s,f=part
ज्येष्ठेन ज्येष्ठ pos=a,g=m,c=3,n=s
अभिजनेन अभिजन pos=n,g=m,c=3,n=s
इह इह pos=i
तद् तद् pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
कुशलाः कुशल pos=a,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit