Original

चत्वरेषु च तीर्थेषु सभास्वावसथेषु च ।यथार्हवर्णं प्रणिधिं कुर्यात्सर्वत्र पार्थिवः ॥ ५० ॥

Segmented

चत्वरेषु च तीर्थेषु सभासु आवसथेषु च यथार्ह-वर्णम् प्रणिधिम् कुर्यात् सर्वत्र पार्थिवः

Analysis

Word Lemma Parse
चत्वरेषु चत्वर pos=n,g=n,c=7,n=p
pos=i
तीर्थेषु तीर्थ pos=n,g=n,c=7,n=p
सभासु सभा pos=n,g=f,c=7,n=p
आवसथेषु आवसथ pos=n,g=m,c=7,n=p
pos=i
यथार्ह यथार्ह pos=a,comp=y
वर्णम् वर्ण pos=n,g=m,c=2,n=s
प्रणिधिम् प्रणिधि pos=n,g=m,c=2,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
सर्वत्र सर्वत्र pos=i
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s