Original

उपायैस्त्रिभिरादानमर्थस्याह बृहस्पतिः ।सान्त्वेनानुप्रदानेन भेदेन च नराधिप ।यमर्थं शक्नुयात्प्राप्तुं तेन तुष्येद्धि पण्डितः ॥ २३ ॥

Segmented

उपायैः त्रिभिः आदानम् अर्थस्य आह बृहस्पतिः सान्त्वेन अनुप्रदानेन भेदेन च नराधिप यम् अर्थम् शक्नुयात् प्राप्तुम् तेन तुष्येत् हि पण्डितः

Analysis

Word Lemma Parse
उपायैः उपाय pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
आदानम् आदान pos=n,g=n,c=2,n=s
अर्थस्य अर्थ pos=n,g=m,c=6,n=s
आह अह् pos=v,p=3,n=s,l=lit
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
सान्त्वेन सान्त्व pos=n,g=n,c=3,n=s
अनुप्रदानेन अनुप्रदान pos=n,g=n,c=3,n=s
भेदेन भेद pos=n,g=m,c=3,n=s
pos=i
नराधिप नराधिप pos=n,g=m,c=8,n=s
यम् यद् pos=n,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
शक्नुयात् शक् pos=v,p=3,n=s,l=vidhilin
प्राप्तुम् प्राप् pos=vi
तेन तद् pos=n,g=m,c=3,n=s
तुष्येत् तुष् pos=v,p=3,n=s,l=vidhilin
हि हि pos=i
पण्डितः पण्डित pos=n,g=m,c=1,n=s