Original

इन्द्र उवाच ।एवंवीर्यः सर्वधर्मोपपन्नः क्षात्रः श्रेष्ठः सर्वधर्मेषु धर्मः ।पाल्यो युष्माभिर्लोकसिंहैरुदारैर्विपर्यये स्यादभावः प्रजानाम् ॥ १ ॥

Segmented

इन्द्र उवाच एवंवीर्यः सर्व-धर्म-उपपन्नः क्षात्रः श्रेष्ठः सर्व-धर्मेषु धर्मः पाल्यो युष्माभिः लोक-सिंहैः उदारैः विपर्यये स्याद् अभावः प्रजानाम्

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवंवीर्यः एवंवीर्य pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
उपपन्नः उपपद् pos=va,g=m,c=1,n=s,f=part
क्षात्रः क्षात्र pos=a,g=m,c=1,n=s
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
धर्मेषु धर्म pos=n,g=m,c=7,n=p
धर्मः धर्म pos=n,g=m,c=1,n=s
पाल्यो पालय् pos=va,g=m,c=1,n=s,f=krtya
युष्माभिः त्वद् pos=n,g=,c=3,n=p
लोक लोक pos=n,comp=y
सिंहैः सिंह pos=n,g=m,c=3,n=p
उदारैः उदार pos=a,g=m,c=3,n=p
विपर्यये विपर्यय pos=n,g=m,c=7,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अभावः अभाव pos=n,g=m,c=1,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p