Original

दृषद्वतीं चाप्यवगाह्य सुव्रताः कृतोदकार्याः कृतजप्यमङ्गलाः ।उपास्य संध्यां विधिवत्परंतपास्ततः पुरं ते विविशुर्गजाह्वयम् ॥ ३० ॥

Segmented

दृषद्वतीम् च अपि अवगाह्य सु व्रताः कृत-उद-कार्याः कृत-जप्य-मङ्गलाः उपास्य संध्याम् विधिवत् परंतपास् ततः पुरम् ते विविशुः गजाह्वयम्

Analysis

Word Lemma Parse
दृषद्वतीम् दृषद्वती pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
अवगाह्य अवगाह् pos=vi
सु सु pos=i
व्रताः व्रत pos=n,g=m,c=1,n=p
कृत कृ pos=va,comp=y,f=part
उद उद pos=n,comp=y
कार्याः कार्य pos=n,g=m,c=1,n=p
कृत कृ pos=va,comp=y,f=part
जप्य जप्य pos=n,comp=y
मङ्गलाः मङ्गल pos=n,g=m,c=1,n=p
उपास्य उपास् pos=vi
संध्याम् संध्या pos=n,g=f,c=2,n=s
विधिवत् विधिवत् pos=i
परंतपास् परंतप pos=a,g=m,c=1,n=p
ततः ततस् pos=i
पुरम् पुर pos=n,g=n,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
विविशुः विश् pos=v,p=3,n=p,l=lit
गजाह्वयम् गजाह्वय pos=n,g=n,c=2,n=s