Original

ततो द्विजातीनभिवाद्य केशवः कृपश्च ते चैव युधिष्ठिरादयः ।प्रदक्षिणीकृत्य महानदीसुतं ततो रथानारुरुहुर्मुदा युताः ॥ २९ ॥

Segmented

ततो द्विजातीन् अभिवाद्य केशवः कृपः च ते च एव युधिष्ठिर-आदयः प्रदक्षिणीकृत्य महानदी-सुतम् ततो रथान् आरुरुहुः मुदा युताः

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्विजातीन् द्विजाति pos=n,g=m,c=2,n=p
अभिवाद्य अभिवादय् pos=vi
केशवः केशव pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
युधिष्ठिर युधिष्ठिर pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
प्रदक्षिणीकृत्य प्रदक्षिणीकृ pos=vi
महानदी महानदी pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
ततो ततस् pos=i
रथान् रथ pos=n,g=m,c=2,n=p
आरुरुहुः आरुह् pos=v,p=3,n=p,l=lit
मुदा मुद् pos=n,g=f,c=3,n=s
युताः युत pos=a,g=m,c=1,n=p